"द्विषन्धिः" इति। षष्ठीतत्पुरुषः, बहुव्रीहिर्वा।
"मधुष्ठानम्? इति। षष्ठीसमासः। "द्विवाहरुआम्()" इति। द्वयोः सहरुआयोर्भव इति तद्धितार्थे समासः। "तत्र भवः"
४।३।५३ इत्यण्(); "संख्यायाः संवत्सरसंख्यस्य च"
७।३।१५ इत्युत्तरपदवृद्धिः।
अथेह कथं षत्वम्()--त्रिः षमुद्धत्वायेति? यावता समासे यत्? पूर्वपदं तत्र पूर्वपदशब्दो रूढः; न चायं समासः;
किं तर्हि? वाक्यम्()? इत्यतद आह--"असमासेऽपि" इत्यादि।
कथं पुनरेतल्लभ्यते? व्यवस्थावचनस्येह पूर्वपदस्याश्रयणात्()।
यथैव हि पूर्वशब्दो लोको रूढिभादाय क्वचित्? तु समुदाये वत्र्तते--पूर्वपञ्चाला इति,
क्वचिद्व्यवस्थायाम्()--अस्मात्? पूर्वं इति वा; तथा शास्त्रेऽपि। तत इह व्यवस्थाशब्दो गृह्रते।
कुतः? व्याप्तेः।
रूढिशब्द एव गृह्रमाणे समास एव स्यात्? नासमासे। व्यवस्थाशब्दे तु सर्वत्र भवति॥